पृष्ठम्:अद्भुतसागरः.djvu/४७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६४
अद्भुतसागरे ।

तत्रैव ।

 मांसास्थीनि समादाय श्मशानोन्मत्तवायसाः ।
 श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशेद्यदि ॥
 विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ।
 चौरेण हसते लोकः परचक्रस्य चागमः ॥
 संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ।
 ऐन्द्री शान्तिस्ततः कार्या वर्धनीपतनोदिता ॥
 अथ वाऽश्वत्थसमिधो हव्या मध्वन्वितास्तिलाः ।
 वैवस्वतेन मन्त्रेण निवेद्यान्नाः सफाणिताः ॥
 तिलघृतोपहारं च क्षीरशान्तिं च कारयेत् ।
 ततः शाम्यति तत्पापं प्रजापतिमतं यथा ॥

नारदः ।

 मृगाश्चैव वराहाश्च व्याघ्रशार्दूलजम्बुकाः ।
 निपतन्ति गृहे यत्र गोरूपाणि तथैव च ॥
 मधुवासो भवेद्यत्र द्वारे वा लोहकीलकम् ।
 योजितं चापि गोयुग्मं प्रविशेद्भवनं यदि ॥
 गोशालाष्वश्वशालासु सुखशालासु[१] वै तथा ।
 गृध्रादयः पतन्त्येते ततः शान्तिं समारभेत् ॥
 धान्योनामयुतं तत्र जुहुयात् क्षेमकृन्नरः ।
 धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥

वसन्तराजः ।

रात्रौ गृहस्योपरि वासमानो दुःखाय शूकः सुतमृत्यत्रे स्यात् ।
गृहस्थनाशाय च सप्तरात्रं नाशाय राज्ञो द्विगुणान्यहानि ॥


  1. मुख्यशालासु इति क्वचित् पाठः ।