पृष्ठम्:अद्भुतसागरः.djvu/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६३
गृहाद्यद्भुतावर्त्तः ।

 होमयेत् तत्र धेनुं च दक्षिणात्वेन कल्पयेत् ॥
 वस्त्रयुग्मं प्रदातव्यं काञ्चनेन समन्वितम् ।
 ब्राह्मणान् भोजयेत् तत्र धान्यं दद्यात् तु दक्षिणाम् ॥

मयूरचित्रे ।

 यदा कटकटायन्ते भवनान्यायुधानि च ।
 मासाभ्यन्तरमात्रेण तदा संग्राममादिशेत् ॥
 दिव्याऽत्रैकादशी शान्तिः करणीया विपश्चिता ।

तत्रैव ।

 निर्भग्ने तोरणे द्वारे शान्तिरत्रैव दिव्यजा ।

नारदः ।

 अकस्माद्गृहभूमिस्तु स्फुटते कुड्यकम्पनम् ।
 गृहं च कम्पते यत्र कोकारावं विमुञ्चति ॥
 गृहं वा पतते विप्र मूर्धवंशश्च भिद्यते ।
 यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते ॥
 गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ।
 पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ॥
 गृहोन्मादो भवेत् तस्य धनं चैव प्रलीयते ।
 दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च ॥
 जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ।
 सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् ॥
 विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ।

मयूरचित्रे तु ।

 अकस्माद्गृहमध्ये तु कोकारावं विमुञ्चति ।
 मासाभ्यन्तरमात्रेण गर्भस्योत्सादनं तु तत् ॥
 अत्रापि प्रथमा शान्तिर्यमलोत्पत्तिसम्भवा ।