पृष्ठम्:अद्भुतसागरः.djvu/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६२
अद्भुतसागरे ।

 हव्याश्च दधिमध्वक्ताः शमीनां समिधोऽयुतम् ।
 भूरिमिन्द्रप्रतिमिति मन्त्रेण रूप्यदक्षिणा ॥

तत्रैव ।

 दर्वी वा मुशलं चापि स्थूणा वा भिद्यते यदि ।
 भिद्यते मूर्धवंशश्च गृहं देवकुलानि च ॥
 मासाभ्यन्तरमात्रेण गच्छन्त्युत्सादनं तु तत् ।
 दस्युभिश्च विलुप्यन्ते वर्णा गच्छन्ति संक्षयम् ॥

तत्रैव ।

 मन्दिरे मूर्ध्नि वंशस्य भङ्गे स्वामिवधो भवेत् ।
 गृहं त्यक्त्वा समिद्धोमः कार्यो वैकङ्गतस्य च ॥
 अष्टोत्तरसहस्रं तु मन्त्रोऽस्मिन् जातवेदसः ।
 भोजनं ब्राह्मणायाथ दातव्या गौश्च दक्षिणा ॥

वैजवायस्तु ।

 पूर्ववंशस्य च स्फोटे स्थूणायाश्च प्ररोहणे ।
 वधूवाहनयानस्य छेदने भेदनेऽपि वा ॥
 सोमं संपूज्य विविधैः सौम्यां शान्ति प्रयोजयेत् ।

मयूरचित्रे ।

 यस्य गेहस्य कम्पेते स्तम्भवंशावकारणम् ।
 दम्पत्योर्जायते मृत्युरत्र शान्तिरियं मता ॥
 भव्यहोतव्यमयुतं दूर्वाणां समिधा ततः ।
 काण्डात् काण्डेति मन्त्रेण हेम दद्यात् सभोजनम् ॥

नारदः ।

 स्थूणा च कम्पते यत्र गृहं कटकटायते ।
 गृहं तत्र प्रशीर्येत म्रियते गृहिणी तथा ॥
 दधिमधुघृताक्तानां तिलानामयुतं ततः ।