पृष्ठम्:अद्भुतसागरः.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अद्भुतसागरे

 येषु शान्तिं प्रकुर्वन्ति न ते यान्ति पराभवम् ।
 ये तु न प्रतिकुर्वन्ति क्रियया श्रद्धयाऽन्विताः ॥
 नास्तिक्याद्वा विमोहाद्वा विनशन्त्येव तेऽचिरात् ।

अथ त्रिविधाद्भुतविवेकः। मत्स्यपुराणविष्णुपुराणधर्मोत्तरयोः ।

 "दिव्यान्तरिक्षं भौमं तु त्रिविधं परिकीर्त्तितम् ।
 ग्रहर्क्षविकृतं दिव्यमान्तरिक्षं निबोध मे ॥
 उल्कापातो दिशां दाहः परिवेषस्तथैव च ।
 गन्धर्वनगरं चैत्र वृष्टेश्च विकृतिस्तु या ॥
 एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत ।
 चरस्थिरभवो भौमो भूकम्पश्चापि भूमिजः ॥
 जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम्” [१]

गर्गसंहितागार्गीयबार्हस्पत्येषु च ।

 स्वर्भानुकेतुर्नक्षत्रग्रहतारार्कचन्द्रजम् ।
 दिवि चोत्पद्यते यच्च तहिव्यमिति कीर्त्तितम् ॥
 वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च ।
 खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् ॥
 भूमावुत्पद्यते यच्च स्थावरे चाथ जङ्गमे ।
 तदैकदेशिकं भौमं भूमिचालाम्बुविक्रिया ॥

 भौमाद्भुतस्य भूगोळोत्पन्नत्वात् सकलभूगोलगामिफलसूचकत्वप्रशकौ विशेष उक्तः । तवैकदेशिकमिति । यस्मिन् यस्याधिकारस्तत्रोत्पन्नं तस्यैव शुभाशुभसूचकमित्यर्थः ।

 मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 “भोमं चाल्पफलं ज्ञेयं चिरेण च विपच्यते ।
 नाभसं मध्यफलदं मध्यकामफलप्रदम् ॥
 दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च"[२]

  1. २२९ अ. ६-९ श्लो.।
  2. २२९ म, ९, १० श्लो, । तत्र दिव्यमित्यादि पद्यार्थे नोपलभ्यते ।