पृष्ठम्:अद्भुतसागरः.djvu/४६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५८
अद्भुतसागरे ।

 वसालोहितमांसानामस्थिमज्जाशिरोरुहाम् ॥
 अकस्माच्चैव संजाते दर्शने नखभस्मनाम् ।
 रसान्यत्वे रसानां च दुर्गन्धे वाऽनिमित्तजे ॥
 पद्मपुष्पाकृतिर्यत्र दृश्यते मधुसर्पिषि ।
 कुशरे पायसे चैव क्षयस्तस्य धनायुषोः ॥
 घृते वा मधुदध्नोर्वा यदा पद्माकृतिर्भवेत् ।
 स्वस्तिकोवाऽपि दृश्येत क्षीरौदनहविःषु च ॥
 श्रोत्रियाय तु तद्दद्याद्गां चैवं शमयेन्नरः ।
 यत्रत्यं चाद्भुतं पश्येत् तच्चापि प्रतिपादयेत् ॥
 कुर्याच्च वारुणीं शान्तिं परमेण समाधिना ।

अक्षतरुधिरे उत्स्विन्नधान्यप्ररोहादिविहिता नारदीया शान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वृक्षाद्यद्भुतावर्त्तः।



अथ गृहाद्यद्भुतावर्त्तः ।

बार्हस्पत्ये ।

 राजवेश्मनि चैत्येषु प्रासादे तोरणे ध्वजे ।
 औत्पातिकानि दृश्यन्ते राज्ञां तत्र भयं भवेत् ॥
 प्रासादतोरणानां च द्वारप्राकारवेश्मनाम् ।
 अकस्माद्बलिनां भङ्गो विज्ञेयो राजमृत्यवे ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोश्च ।

 प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ।
 अनिमित्तं तु पतनमट्टानां राजमृत्यवे ॥