पृष्ठम्:अद्भुतसागरः.djvu/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५६
अद्भुतसागरे ।

 दधिमधुघृताक्तानामुपोष्य जुहुयात् ततः ।
 समिधामयुतं सप्तधान्यं दद्याद्विजातये ॥
 आग्नेयी यदि वा शान्तिरत्र कार्या विपश्चिता ।
 अनग्नावग्निज्वलने प्रोक्ता भूमौ द्वितीयका ॥

नारदः ।

 यवो माषः कलायश्च तण्डुलश्च प्ररोहति ।
 शुष्ककाष्ठप्ररोहे तु भक्ते रुधिरदर्शने ॥
 माषतण्डुलधान्यानामयुतं जुहुयात् ततः ।
 घृतेन मधुना चैव महाव्याहृतिमन्त्रवित् ॥
 ब्राह्मणाय प्रदातव्यं सुवर्णं धान्यमेव च ।
 वृषभश्चैव धेनुश्च ततः संपद्यते शुभम् ॥

गार्गीये ।

 उत्स्विन्नाश्च मुहुर्माषाः प्ररोहन्ति यदि क्व चित् ।
 तदा तत्र विनाशः स्यात् कुलस्येति न संशयः ॥

मयूरचित्रे ।

 प्ररोहन्ति गृहे येषामुत्स्विन्ना व्रीहिजातयः ।
 तेषां मृत्युर्भवेद्वर्षात् समिधां दर्भकाशयोः ॥
 अयुतं तत्र होतव्यं मन्त्रोऽस्मिन् जातवेदसः ।

नारदः ।

 उत्स्विन्ने दग्धधान्ये च यदि तत्रोङ्कुरो भवेत् ।
 धान्यं वोत्पतते तत्र तण्डुलाश्चोत्पतन्ति च ॥
 कलायश्च मसूरश्च मुद्गो माषस्तथैव च ।
 शस्यानां हरणात् तत्र उत्सादश्व भविष्यति ॥
 काष्ठे धान्यं यदा भूमौ दृश्यते मध्यतो यदा ।
 म्रियते च प्रभुस्तत्र षड्भिर्मासैर्न संशयः ॥