पृष्ठम्:अद्भुतसागरः.djvu/४६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५२
अद्भुतसागरे

ल्वनीलाशोकेङ्गुददर्भदूर्वाकुसुमवदरोकुन्दजम्बूसिन्दुवारवेतसन्यग्रो- धसप्तपर्णद्राक्षाभिमुक्तापारिजातमधूकविल्वोटजवासककिंशुकशिंशपानां शस्यकुसुमैश्च रक्तशालिसर्वधान्यकलमशालिषष्टिकयावकशर्षपमुद्गमसूरकशणेक्षुमूलकप्रियङ्गुकुलत्थकार्पासमाषयवकमुष्ठकसतिलकलायकगोधूमगौरकराजमाषकोद्रवशाकसम्पदं विन्द्यात् तथा लोध्रनन्द्यावर्त्तकुरवकचम्पकबन्धुजीवसिन्दुवारार्ककरञ्जकुसुम्भखर्जूरपिप्पलैस्ताम्रवैडूर्यवज्रकनकप्रधानमौक्तिकहिरण्यविषपिप्पलीतगराणां सम्पदमभिनिर्दिशेत् । रक्तोत्पलकमलाशिताकुमुदशतपत्रकुमुदसौगन्धिकस्वर्णयूथिकामलकपटोलशम्याकवृद्ध्याऽतिवृद्धिः । नृपतिमन्त्रिद्विजर्त्विकचमूपतिश्रेष्ठिचतुष्पादपक्षिगजानां तथा लोध्रनिचुलकुसुम्भनिम्बगजतुरगकर्णपाटलार्जुनशिशपानां वृषिभयं शङ्खकारुकसुभिक्षकरितुरगगोषुवृष्टीनां सम्पद्भवति चोपघातः पौर्णमासीषूल्कानिर्घातकम्पग्रहोपरागोपतप्तासु । तत्र माघे सुगन्धि मधुरलवणद्रव्याणाम् । फाल्गुने शङ्खचन्दनकृमिबन्धकीनाम् । चैत्रे कार्पासफलचित्रभाण्डानाम् । वैशाखे कुसुमफलतरुत्वङ्गिर्यासादीनां पण्यानाम् । ज्येष्ठे सर्वशस्यानाम् । आषाढे क्षिप्तबीजानाम् । श्रावणे लाक्षालोध्रहरिद्रामाञ्जिष्ठानाम् । भाद्रपदे हयगजस्वरकरभचर्मशिल्पिनाम् । आश्वयुजेऽश्वोष्ट्रस्वरमाहिषहस्तिनाम् । कार्त्तिके कुसुमभाण्डानां ग्रैष्मिकाणां च शस्यानाम् । मार्गशीर्षे कनकमणिफलवस्त्र विषाणिनाम् । पौषे पुष्पेक्षुमणिभाण्डानाम् ।
अपि च ।

 शमीखदिरपुन्नागपुष्पैर्दुर्भिक्षलक्षणम् ।
 निम्बार्जुनकदम्बानां संपदा शस्यसंपदम् ॥