भयं भल्लातके क्षेममाम्रे वातं करञ्जकैः ।
मातुलिङ्गैरनावृष्टिं माधवीभिः सुरासवम् ॥
कोविदारैरग्निभयं पीलुभिश्चाप्यरोगताम् ।
मुक्तारजतशङ्कानां सम्पत् तिलकसम्पदा ॥
श्यामालता बन्धकीनामामयं कुटजैर्विदुः ।
मूलकान् शिशपापुष्पैर्जम्बूभिश्च तिलान् वपेत् ॥
शणौर्णिकं कर्णिकारैर्हयान् भव्यैर्विनिर्दिशेत् ।
अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः ॥
निर्दिशन्ति शुभं वृक्षा विपरीता विगर्हिताः ।
षण्यविद्यासमुद्देशश्चोक्तः पुष्पादिलक्षणैः ॥
वृहद्यात्रायां वराहः ।
कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत् ।
औशनसे तु ।
पुष्पे पुष्पं भवेद्यत्र फले वा स्यात् तथा फलम् ।
पर्णे पर्णं विजानीयात् तत्र जानपदे भयम् ॥
हरिवंशे तु हिरण्यकशिपुवधनिमित्तम् ।
"फले फलान्यजायन्त पुष्पे पुष्पं तथैव च"[१] ।
आग्नेयपुराणेऽष्वेवम् ।
पराशरः ।
शस्यनिचयेष्वेकस्माद्वृद्धिक्षयौ तिलेष्वतैलं भयाय ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"सर्वशस्यपरिच्छिन्ना पृथिवी फलशालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः"[२] ॥