पृष्ठम्:अद्भुतसागरः.djvu/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४१
वृक्षाद्यद्भुतावर्त्तः ।

 विद्रवं नृपतेर्विद्याच्छान्तिः कार्या तु षोडशी ॥

संवत्सरेणास्य फलपाक इति वराहसंहितायामुक्तम् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शक्रध्वजाद्भुतावर्त्तः ।
अथ वृक्षलताफलपुष्पशस्यान्नव्यञ्जनाद्यद्भुतावर्त्तः ।

तत्र सुन्दरकाण्डे रामजयनिमित्तम् ।

 “प्रवान्त्यभ्यधिकं गन्धा नितान्तं पुष्पिता द्रुमाः"[१]

वराहसंहितायाम् ।

 शाखाभङ्गेऽकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम् ।
 हसने राष्ट्रभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥

पराशरश्च ।

 वृक्षाणां रोदने व्याधिर्हसने देशविद्रवम् ।
 शाखाप्रपतनेऽकस्मात् संग्रामे योधघातनम् ॥
 स्थानात् स्थानान्तरगमे देशभङ्गभयं भवेत् ।

वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु ।

 रोदने व्याधिमाख्याति हसने देशविभ्रमम् ।
 शाखाप्रपतने कुर्यात् संग्रामे योधघातनम् ॥
 जल्पत्स्वपि च वृक्षेषु रोदत्सु च धनक्षयम् ।

वदेदिति सम्बन्धः ।
जनक्षयमिति क्वचित् पाठः ।
वराहसंहितायाम् ।

 सर्पत्सु तरुषु जल्पत्सु चाऽपि जनसंक्षयो विनिर्दिष्टः ।

बार्हस्पत्ये तु

 नर्दने देशनाशः स्याद्योधा नश्यन्त्यशाखया ।


  1. उक्तस्थले नोपलभ्यते ।