पृष्ठम्:अद्भुतसागरः.djvu/४४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३७
शक्रध्वजाद्भुतावर्त्तः।

 यष्टिं प्रवेशन्तीं निपातयन्तो भयाय नागाद्याः ।
 बालानां तलशब्दे संग्रामाः सत्त्वयुद्धे वा ॥

गर्गः।

 अविध्वस्तमनाधूतमद्रुताजिह्ममूर्ध्वगम् ।
 इन्द्रध्वजसमुत्थानं क्षेमसौभिक्षकारकम् ॥

वराहसंहितायां तु ।

 नातिद्रुतं न च विलम्वितमप्रकम्प-
 मध्वस्तमाल्यपिटकादिविभूषणं च ।
 उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात्
 तच्छान्तिभिर्नरपतेः शमयेत् पुरोधाः॥

शान्तिभिरैन्द्रीभिः ।
विष्णुधर्मोत्तरे।

 इन्द्रध्वजशिरो भज्येत् पतेदिन्द्रध्वजो यदि ।
 भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥
 यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च ।
 मातृकायास्तथा भङ्गे परचक्रभयं भवेत् ॥
 इन्द्रध्वजोपकरणं यत्किञ्चिद्द्विजसत्तम ।
 विनाशे तस्य विज्ञेया पीडा नगरवासिनाम् ॥

बार्हस्पत्ये।

 इन्द्रध्वजशिरो भिद्येत् पतेद्वा वासवः क्षितौ।
 भिद्यते शक्रयष्टिर्वा नियतं नृपतेर्वधः ॥
 इन्द्रकीलो दृढो भिद्येद्द्वारपक्षसमापितः ॥
 स्थपत्यश्च कपाटानि स्तम्भा वा राजमृत्यवे ॥

औशनसे तु।

 देवराजध्वजानां तु भङ्गपातप्रकम्पनम् ।