पृष्ठम्:अद्भुतसागरः.djvu/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२७
देवप्रतिमाद्भुतावर्त्तः ।

तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
 वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा"[१]

औशनसे ।

 विहसन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
 विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च ॥
 प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् ।

भागवते श्रीकृष्णोत्क्रान्तिनिमित्तानि वैकृतानि ।

 "मांसशोणितगन्धीनि यत्र तत्र महद्भयम् ।
 यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
 तत्र द्वादशमासेषु राज्ञो मरणमादिशेत्"[२]

मत्स्यपुराणे त्रिपुरदाहनिमित्तम् ।

 "अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तथा ।
 निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मगाः" [३]

औशनसे तु ।

 चित्राणि यत्र लिङ्गानि तथैवायतनानि च ।
 विकारं चक्रुरत्यर्थं तत्र विन्द्यान्महद्भयम् ॥

वृद्धगर्गसंहिताबार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।

 पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।

पराशरश्च ।

 तत्र पितामहर्षिधर्मान् ब्राह्मणानाम् ।

वराहसंहितायाम् ।

 ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।

ओशनसे तु ।

 पितामहे तु यच्च स्यात् सोमे धर्मे ऋषिष्वपि ।


  1. २ अ. २६ श्लो ।
  2. नो कस्थले उपलभ्यते ।
  3. १८८ अ. ११-१२ श्लो.।