पृष्ठम्:अद्भुतसागरः.djvu/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२६
अद्भुतसागरे ।

अग्निपुराणे हिरण्यकशिपुवधनिमित्तम् ।

 प्रतिमाः सर्वदेवानां हसन्ति च रुदन्ति च ।
 उन्मीलन्ति निमीलन्ति धूमायन्ति ज्वलन्ति ॥
 विक्रोशन्ति च गम्भीरं कथयन्त्यो युगक्षयम् ।

मत्स्यपुराणपद्मपुराणयोश्च हिरण्यकशिपुवधनिमित्तम् ।

 “उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
 विक्रोशन्ति स गम्भीरं धूमायन्ति ज्वलन्ति च ॥
 प्रतिमाः सर्वदेवानां कथयन्ति महद्भयम्”[१]

भागवते श्रीकृष्णोत्क्रान्तिनिमित्तम् ।

 “दैवतानि रुदन्तीह स्विद्यन्तेऽद्य स्फुटन्ति च”[२]

बार्हस्पत्यवृद्धगर्गसंहितयोः ।

 देवतार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति वा ।
 उद्विजन्ते हसन्ते वा प्रस्विद्यन्ति रुदन्ति वा ॥
 उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पतन्ति वा ।
 भज्यन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
 अवाङ्मुखा भवन्त्येव स्थानात् स्थानं व्रजन्ति वा ।
 वमन्त्यग्निं जलं धूमं स्नेहं रक्तं पयो वसाम् ॥
 जल्पन्ते निःश्वसन्ते वा विचेष्टन्ते नमन्ति वा ।
 विश्रमाद्वीक्ष्यतेऽन्यत्र गात्रैर्वाऽपि विचेष्टते ॥
 यत्रैते संप्रदृश्यन्ते विकाराः सहसोत्थिताः ।
 लिङ्गायतनचैत्येषु तत्र वासं न रोपयेत् ॥
 राज्ञो वा व्यसनं तत्र स वा देशः प्रलीयते ।
 क्षुच्छस्रमरणैर्वाऽपि किञ्चित् तन्नावशिष्यते ॥


  1. मत्स्यपुराणे १६३ अ, ४५-४६लो ।पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३७-१३८श्लो, ।
  2. नोक्तस्थले उपलभ्यते ।