पृष्ठम्:अद्भुतसागरः.djvu/४३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२३
अग्न्यद्भुतावर्त्तः ।

 उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥
द्विरदमदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे ।
"प्रणतरिपुशिरोमणिप्रभाभिर्भवति पुरः स्फुरितेव भूर्नृपस्य"[१]

बृहद्यात्रायाम् ।

 “इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृति-
  र्भैर्यर्ब्दोदधिदुन्दुभीतशकटस्निग्धस्वनैः पूजितः ।
 नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धो यथाऽभीष्टदः
  सव्याङ्गे नृपतिं दहन्नतिहितः शेषं च लोकाद्वदेत्"[२]

योगयात्रायाम् ।

 कृतेऽपि यत्नेऽतिकृशः कृशानुर्यातव्यकाष्ठाविमुखो नतार्चिः ।
 वामीकृतावर्त्तशिखोऽतिधूमो विच्छिन्नसोत्कम्पविलीनमूर्त्तिः ॥
 सिमसिमायति चास्य हविर्हुतं सुरधनुःसदृशः कपिशोऽथ वा ।
 रुधिरपीकवभ्रुहरिच्छविः परुषमूर्तिरनिष्टकरोऽनलः ॥
 खरकरभवानरानुरूपो निगडविभीषणशस्त्ररूपभृद्वा ।
 शवरुधिरवसास्थिवस्त्रगन्धो हुतभुगनिष्टफलः स्फुलिङ्गकृच्च ॥
 वर्णविपाटनतुल्यनिनादो जर्जरशब्दविरूक्षरवो वा [३]
 आकुलयँश्च पुरोहितमर्त्त्यान् धूमलवैर्न शिवाय हुताशः ॥
 अग्न्याश्रितं यत् फलमुक्तमस्मिँस्तज्जातकर्मादिषु पौष्टिकेषु ।
 यज्ञेषु सर्वेषु च वह्निकार्येष्वेवं वदेद्यस्य यथानुरूपम् ॥
 अत्रानुक्तविशेषशान्तिष्वग्न्युत्पातेष्वाग्नेयी शान्तिनिवृत्तिर्वेति ।


  1. बृहत्संहितायामप्युपलभ्यन्ते इमे श्लोकाः । तदर्थं द्रष्टव्यम् अ.५०९ पृ. ।
  2. योगयात्राया इदं वचनम् । तदर्थं द्रष्टव्यम् । अ. ५०९ पृ. ।
  3. चर्मविपाटनतुल्यनिदानो जर्जरदर्दुररूक्षुरवो वा इति अ. ।