पृष्ठम्:अद्भुतसागरः.djvu/४३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१९
अग्न्यद्भुतावर्त्तः ।

अथाग्न्यद्भुतशान्तिः । तत्र वृद्धगर्गः ।

 समिद्भिः क्षीरवृक्षाणां शर्षपेण ससर्पिषा ।
 होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्णं चात्र दक्षिणा ॥

वराहसंहितायाम् ।

मन्त्रैराग्नेयैः क्षीरवृक्षात् समिद्भिर्होतव्योऽग्निः सर्पिषावाऽपि यत्नात्।
अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः ॥

बार्हस्पत्ये तु।

 समिद्भिः क्षीरवृक्षोत्थैः शर्षपैश्च घृतेन च ।
 होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्णं चात्र दक्षिणा ।

वराहसंहितायां च ।

 अग्निर्भूम्यामिति तिस्र आग्नेयीस्तत्र कारयेत् ।
 गुरवे पार्थिवो दद्यात् प्रियाण्याभरणानि च ॥
 पायसं सर्पिषा मिश्रं ब्राह्मणानपि भोजयेत् ।
 तेषामपि यथान्यायं दक्षिणां दापयेत् ततः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः ।
 समिद्भिः क्षीरवृक्षाणां शर्षपैश्च घृतेन च ॥
 अग्निलिङ्गैश्च जुहुयाद्बहु श्वेताम्बरः शुचिः ।
दद्यात् सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा नवीनम् ।
एवं कृते पापमुपैति नाशं यदग्निवैकृत्यभवं नरेन्द्र ॥

वैजवायः ।

 अनग्नावग्निज्वलने अनग्नौ धूमसम्भवे ।
 आममांसस्य ज्वलने दाहे च नववाससः ॥
 अग्न्यपत्यभये चैत्र हेम्नो वृद्धिविनाशयोः ।
 एष्वद्भुतेषु विधिवदाग्नेयीं शान्तिमाचरेत् ॥