पृष्ठम्:अद्भुतसागरः.djvu/४२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१८
अद्भुतसागरे ।

 वृक्षा वा पर्वता वाऽपि परचक्रभयं भवेत् ॥

पराशरश्च ।

चतुष्पदपक्षिमनुष्याणामङ्गेषु धूमादिदर्शनं परचक्रागमनाय ।

औशनसे तु ।

 पुमानश्वो गजो वाऽपि यदाऽकस्मात् प्रदीप्यते ।
 दशमासात् परं तत्र जानीयाद्राष्ट्रसंभ्रमम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 पुरवाहनयानेषु मनुष्यमृगपक्षिषु ।
 विनाऽग्निं विस्फुलिङ्गदृश्यते यत्र कुत्र चित् ॥

तत्र संग्राममादिशेदिति सम्बन्धः ।
पराशरः ।

 प्रासादचैत्यधूमप्रादुर्भावो महते भयाय ।

वृद्धगर्गस्तु ।

 प्रासादादिषु चैत्येषु यदि धूमो विनाऽग्निना ।
 भवन्ति वा विना धूमैरग्नयो वा भयाय ते ॥

तत्रैव ।

छत्रे गृहे वाऽथ रथे ध्वजे वा धूमः समुत्तिष्ठति यस्य तूर्णम् ।
स पार्थिवः साश्वमनुष्यकोषः पराभवं याति जनक्षयश्च ॥

वराहसंहितायाम् ।

 सैन्यग्रामपुरेषु तु नाशो वह्नेर्भयं कुरुते ।

वृद्धगर्गः ।

 शयनासनयानेषु केशप्रावरणेषु च ।
 दृश्यतेऽग्निस्फुलिङ्गो वा धूमो वा मरणाय तत् ॥

यस्य शयनासनादौ तस्य मरणाय ।
वराहसंहितायाम् ।

 धूमाग्निविस्फुलिङ्गैः शस्याम्बरमूर्धजैर्मृत्युः ।