पृष्ठम्:अद्भुतसागरः.djvu/४२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१२
अद्भुतसागरे ।

हरिवंशपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।

 “नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः"[१]। ।

अग्निपुराणे च ।

 नद्यश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥

बार्हस्पत्ये ।

 महोर्मिभिः क्षोभिततोयवेगाः स्वकूलजान् वृक्षगणान् हरन्त्यः |
 नद्यः प्रतीयाम्बुवहा यदा स्युस्तदा भयं विद्धि नरेश्वरस्य ॥

एतेन स्रोतोभिघातजातस्य प्रादेशिकाभिन्नदोषावहत्वमित्युक्तम् ।
उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम् ”[२]

वराहसंहितायाम् ।

 सलिलोत्पत्तिरवाते गन्धरसविपर्ययोऽत्र तोयानाम् ।
 सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥

तथा च मत्स्यपुराणे ।

 जलाशया विनिर्वृतिं प्रजल्पन्ति कथन्ति वा ।
 प्रमुञ्चन्ति सुजिह्वां च ज्वालाधूमं सृजन्ति च ॥
 अखाते वा जलोत्पतिमगन्धा वा जलाशयाः ।
 संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥

विष्णुधर्मोत्तरे ।

 जलाशया विनिर्दन्ति प्रजल्पन्ति कथन्ति च ।
 विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ॥

अन्यन्मत्स्यपुराणतुल्यम् ।
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।

 "ह्नदाः कूपाश्च रुधिरमुद्वमुर्नृपसत्तम" [३]


  1. भविष्यपर्वणि ४६ अ. २१ श्लो । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ, १३९ श्लो. तत्र 'नद्यश्च प्रतिकूलानि इति ।
  2. ८४ अ, ७ श्लो, ।
  3. ५८ अ, ५८ श्लो ।