पृष्ठम्:अद्भुतसागरः.djvu/४२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१०
अद्भुतसागरे ।

गदापर्वणि दुर्योधनवधनिमित्तम् ।

 "उदपानगताश्चापो व्यवर्धन्त समन्ततः"[१]

उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।

 “अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः”[२]

भगवते हिरण्याक्षोत्पत्तौ ।

 "चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
 सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "[३]

भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।

 "नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च"[४]

गार्गीये ।

 जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
 वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 नगरादपसर्पन्ते समीपमुपयान्ति वा ।
 अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
 नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
 विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
 क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
 षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥

वृद्धगर्गस्तु ।

 नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
 अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
 ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
 अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
 प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।


  1. ५६ अ १४ श्लो. ।
  2. ९ x ३२ श्लो.।
  3. xx उपलभ्यते ।
  4. xx उपलभ्यते ।