पृष्ठम्:अद्भुतसागरः.djvu/४२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०९
जलाशयाद्भुतावर्त्तः ।

 ........ तां च यायान्नराधिपः -इति सम्बन्धः

विष्णुधर्मोत्तरे ।

 यां दिशं भूकम्पो याति तां च यायाद्राजा-इति ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे भूमिकम्पाद्भुतावर्त्तः ।

अथ जलाशयाद्भुतावर्त्तः ।

तत्र पद्मपुराणे देवानां पराजयनिमित्तम् ।

 "यथार्थमाहुः सरितो न च चुक्षुभिरेऽर्णवाः[१]

सुन्दरकाण्डे रामजयनिमित्तम् ।

 “प्रसन्नाः सुरसाश्चापः ........ [२]

बार्हस्पत्ये ।

 विप्राणां भवति हि शुक्लमम्बुदोषो
  राजानं सपदि निहन्ति लोहितं च ।
 पीतं चेद्भवति निहन्ति वैश्यवर्गं ।
  शूद्राणां भवति हि कृष्णमम्बुदोषः ॥

मत्स्यपुराणेऽसुरपराजयनिमित्तम् ।

 “.........उद्भूताश्च महार्णवाः"[३]

स्कन्दपुराणे प्रह्लादपराज्यनिमित्तम् ।

 वेलावलीसमाकीर्णा उद्भूताः सिन्धुसागराः ।

उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।

 “वेलां समुद्रश्चोत्क्रान्तः....... ” [४]


  1. ५ सृष्टिखण्डे ३८ अ. १६४ श्लो, तत्र 'न चुक्षुभे तथाऽर्णवः'-इति ।
  2. नोक्तस्थले उपलभ्यते ।
  3. नोक्तस्थले उपलभ्यते ।
  4. ७ सर्गे ३२ श्लो. ।