पृष्ठम्:अद्भुतसागरः.djvu/४१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०८
अद्भुतसागरे

 शान्त्यर्थं योजयेद्विप्रान् प्रतिपूज्याश्च देवताः ॥

देवतास्ता एव मण्डलदेवता इत्यर्थः । पराशरः ।

 अभीक्ष्णा बहवोऽवनिपतिविग्रहाय भयाय च -इति ।

भूकम्पदिवसात् तृतीये चतुर्थे सप्तमे वा पक्षे मासे सार्धमासे वा भूकम्पफलमाह काश्यपः ।

 अर्धमासे चतुर्थेऽह्नि मासे सार्धे हि सप्तमे ।
 कम्पते धरणो चेत् स्यान्नृपतेः श्रेयसः क्षयः ॥

श्रेष्ठनृपतिविनाश इत्यर्थः ।
पराशरः ।

 त्रिचतुःसप्तरात्रे पक्षमासत्रिपक्षान्तरे प्रततानुभूकम्पिनः प्रवरनृपतिविनाशाय ।

वराहसंहितायां च ।

 त्रिचतुर्थे सप्तमदिने पक्षे मासेऽथ वा त्रिपक्षे च ।
 यदि भवति भूमिकम्पः प्रधाननृपनाशनो ज्ञेयः ॥

सकलभूकम्पादिदोपशान्तिमाह पराशरः ।

 शमयान्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्चैव ।
 अभिवर्षणोपवासव्रतदीक्षाजप्यहवनानि ॥

अथ मण्डलानां भूकम्पयोजननिर्णयो भार्गवीये ।

 वायव्यं विंशतिशतमाग्नेयं नवतिं चलेत् ।
 अशीतिं तु चलेदैन्द्रं सप्ततिं वारुणं चलेत् ॥

वराहसंहितायाम् ।

चालयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् ।
सलिलपतिरशीतिसंयुतं कुलिशधरोऽप्यधिकं च षष्टितः -इति ।

यां दिशं भूकम्पो गच्छति तां दिशं नृपतिरभियुञ्जीत ।
तथा च मत्स्यपुराणे ।

 भूचालो यां दिशं याति यां च केतुः प्रधूपयेत् ।