पृष्ठम्:अद्भुतसागरः.djvu/४१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०७
भूमिकम्पाद्भुतावर्त्तः ।

गदापर्वणि दुर्योधनवधनिमित्तम् ।

 “चचाल च महाकम्पं पृथिवी सवनद्रुमाः[१]

विष्णुधर्मेत्तरे ।

 सनिर्घाते दीर्घभूमिचाले राजमरणं स्यात् ।

उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “रसते कम्पते भूमिर्व्यथतीव च सर्वशः”[२]

शल्यपर्वणि शल्यवधनिमित्तम् ।

 “चचाल शब्दं कुर्वाणा सपर्वतवना मही”[३]

गदापर्वण पाण्डवशिविरक्षर्यानिमित्तम् ।

 “ससागरवना घोरा पृथिवो सचराचरा ।
 चचालाश निनिदा दिशश्चैवा विला भवन्”[४]

भार्गवीये ।

 यस्यां यस्यां दिशि धरा विरोति विकृतस्वरा ।
 तस्यां तस्यां दिशि भयं सार्धं स्यादधिकारिभिः ॥

अथ सन्ध्याकालिकभूमिकम्पफलं मयूरचित्रे |

 सन्ध्ययोरुभयोर्भूतो भूकम्पो यदि जायते ।
 सन्ध्योल्कापातवत् कार्या दिव्य । शान्तिश्चतुर्दशी ॥
 यदि वा षोडशी दिव्या पूर्वा साधरणो शुभा ।

अपरमपि मयूरचित्रे ।

 सन्ध्ययोर्भूमिकम्पे तु नृपस्यादिवधः स्मृतः ।
 प्रजापत्या ततः शान्तिः कृता चेच्छं भविष्यति ॥

औशनसे ।

 यदा कम्पेत वसुधा सर्वेषु दिवसेषु च ।


  1. ५६ अ. १० लो । तत्र 'चतम्पे च' इति पाठः ।
  2. नोक्तस्थले उपलभ्यते ।
  3. ११ अ. १४ लो । तत्र 'मही चापि सपर्वता' - इति पाठः।
  4. ६४ अ. ४१-४२ श्लो। तत्र 'चचालाथ मनिहदा' इति पाठः ।अविलाअभवन्नित्यत्र अविला भवन्नित्याः ।