पृष्ठम्:अद्भुतसागरः.djvu/४१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०६
अद्भुतसागरे

तथा च गर्गः ।

 निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः ।
 मेघस्तनितशब्दाश्च सूर्येन्दुग्रहणं तथा ॥
 मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः ।

वटकणिकायां च ।

 उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
 वातोऽतिचण्डो ग्रसनं रवीन्द्वोर्नक्षत्रताराग्रहवैकृतानि ॥
 व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्नौ विस्फुलिङ्गार्चिषो वा ।
 वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा ॥
 सन्ध्याविकारः परिवेषदण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
 अन्यच्च यत् स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव विचिन्तनीयम् ॥

अथ शुभसूचकभूकम्पलक्षणम् । तत्र पराशरः ।
  स्निग्धस्वनाः प्रदक्षिणानुयायिनोऽम्बुधरधाराभिषिक्ताः पर्वसुच सर्व एव प्रशस्यन्ते ।
अथाशुभसूचकभूकम्पलक्षणम् ।तत्र हरिवंशे कंसवधनिमित्तम् ।

 “चलत्यपर्वणि मही गिरीणां शिखराणि च”[१]

पराशरः ।

 अवनेर्विदरणमतिमात्रचलनं महाभयाय -इति ।

द्रोणपर्वणि द्रोणवधनिमित्तम् ।

 “चचाल चापि पृथिवी सशैलवनकातना" [२]

गदापर्वणि पाण्डवशिविरपराजयनिमित्तम् ।

 “चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ।

स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।

 चचाल सकला तूर्वी धराधरसमन्विता [३]


  1. २३ अ, ३० श्लो ।
  2. ७७ अ, ४ श्लो, ।
  3. ५८अ, ४९ श्लो. ।