तदुक्तं वटकणिकायाम् ।
आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च ।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥
ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।
सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावहौ ।
येषामद्भुतानां फलपाको नोक्तस्तेवामयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥
भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।
षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।
बार्हस्पत्ये तु चतुर्षु मण्डलेषु भूमिकम्पस्य फलपाको विशेषेण कथितः ।
तद्यथा ।
आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ।
वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बार्हस्पत्ये ।
एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
माहेन्द्रीममृतां वाऽपि कुर्याच्छान्तिं सदक्षिणाम् ॥
ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।
ऐन्द्रकम्पे तु विधिवदैन्द्रमन्त्रैर्विधानवित् ।
तत्फलस्य प्रबद्धार्थं जुहुयाच्च जपेत् तथा ॥
पराशरः[१] ।
योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।
- ↑ इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्टव्यम् अ. पुस्तके ४५३ पृ. ।