पृष्ठम्:अद्भुतसागरः.djvu/४१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०१
 

 पर्वतेषु च यद्बीजमूषरे जाङ्गले तथा ।
 तत्रोप्तमुद्यते बीजमन्यत्र तु विनश्यति ॥
 औङ्रजानि च पुष्पाणि मूलानि च फलानि च ।
 गच्छन्ति तत्र वृद्धिं हि सत्त्वाभ्युदयकानि च ॥
 क्षेमं सुभिक्षमारोग्यं सुवृष्टिं चात्र निर्दिशेत् ।
 एवमेवं तु कम्पानां सामान्यं त्वम्बुकम्पितम् ॥

इदं तु मण्डलं केषां चिदशोभनं च ।
तथा च पराशरः ।
अतीसारहिक्काक्षिरोगकृदपि वा विशेषतस्तु किरातकाश्मीरपारतावन्तकौकुरेयशौर्यारकचेदिवत्ससैन्धवोदकपात्रकोदधिनदनदीसंश्रितांश्च देशानुपहन्ति ।
वराहसंहितायाम् ।

 वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
 गोनर्दचेदिकुकुरान् किरातवैदेहान् हन्ति ॥

काश्यपस्तु ।

 अभ्रकाः सकरूषाश्च सिंहला जलजीविनः ।
 नश्यन्ति विषयाश्चैव शान्तिं कुर्वीत वारुणीम् ॥

अत एवास्मिन् मण्डले मत्स्यपुराणविष्णुधर्मोत्तरयोर्वारुणी शान्तिरुक्ता ।
तथा च मत्स्यपुराणे ।

 चतुर्थदिनयामे च रात्रौ च रविनन्दन ।
 सार्पे पौष्णे तथाऽऽर्द्रायामहिर्बुध्न्ये च वारुणे ।
 मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा ।
 वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ॥

वरुणदैवत्यं जलम् । तस्मिन पूर्वाषाढायाम् । विष्णुधर्मोत्तरेऽष्वेवम् । अस्य फलपाकः सद्य एव ।