पृष्ठम्:अद्भुतसागरः.djvu/४०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९८
अद्भुसागरे ।

 काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
 अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृद्धिकरम् ॥

इष्टवृद्धिकरं सज्जनवृद्धिकरमिति । अत एवास्मिन् मण्डले विष्णुधर्मोत्तरादौ शान्तिरुक्ता ।
विष्णुधर्मोत्तरे ।

 तृतीये दिनयामे च रात्रेश्च भृगुनन्दन ।
 रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
 ज्येष्ठायां च तथा मैत्रे ये भवन्त्यद्भुताः क्व चित् ।
 ऐन्द्री तेषु तु कर्त्तव्या शान्तिर्भृगुकुलोद्वह ॥

अत्र शान्तिशब्देन महाशान्तिर्बोद्धव्या ।
तदुक्तं मत्स्यपुराणे ।

 तृतीये दिनयामे च रात्रौ च रविनन्दन ।
 रौहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
 ज्येष्टायां च तथा मैत्रे ये भवन्त्यद्भुतास्तथा ।
 ऐन्द्री तेषु प्रकर्त्तव्या महाशान्तिः कुलोद्वह ॥

फलपाकस्त्वस्य सप्तरात्राभ्यन्तरे ।
तथा च वटकणिकायाम् ।

 प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिच्च ।
 ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात् तोयं संप्रहष्टाः प्रजाश्च [१]

अथ वारुणमण्डलमौशनसे ।

 प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे ।
 द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् ॥
 अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च ।
 प्रजा धर्मरताश्चैव भयरोगविवर्जिताः ॥

पराशरः ।

 वारुणाहिर्बुध्न्यपूषारुद्रभुजगनैर्ऋत्यदैवतेषु कम्पोऽम्बुपतिकृ


  1. हृष्टलोकं प्रशान्तम् इति अ ।