पृष्ठम्:अद्भुतसागरः.djvu/४०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९५
भूमिकम्पाद्भुतावर्त्तः ।

अथेन्द्रमण्डलमौशनसे ।

 यदा चलति पूर्वेण ऐन्द्राद्ये सप्तके गणे ।
 चतुर्थयामे प्रदोषे ऐन्द्रः कम्पः स उच्यते ॥
 तत्र बीजानि वर्धन्ते सुभिक्षं चैव जायते ।
 स्वधर्मस्था हि राजानः सुक्षेमं शान्तिरेव च ॥

चतुर्थयामे दिनचतुर्थयामे। प्रदोषे रात्रिप्रथमयामे इति ।
पराशरः ।
 ऐन्द्रवैष्णववैश्वदेवप्राजापत्यसौम्यादित्यमैत्रेषु सुरपतिरवनिं चालयति । प्रावृडाम्भोदयज्ञधर्मान्नपानोत्सवोऽन्यत्र -इति ।
बार्हस्पत्ये । मृगशिरोनक्षत्रस्थाने घनिष्ठानक्षत्रमुक्तम् ।
तद्यथा ।

 ज्येष्ठानुराधाश्रवणाधनिष्ठाश्च पुनर्वसु ।
 प्राजापत्योत्तराषाढे माहेन्द्रं मण्डलं स्मृतम् ॥
 यद्यत्र चलते भूमिर्निर्घातोल्के तथैव च ।
 अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
 आदित्यो वा निगृह्येत सोमो वाऽप्युपरज्यते ।
 माहेन्द्रं तद्विजानीयात् सुक्षेमं चात्र निर्दिशेत् ॥
 गावः समग्रवत्साश्च स्त्रियः पुत्रसन्विताः ।
 कीटव्याला म्रियन्ते च ये चान्ये स्वेन्दजन्तवः ॥
 वेदाध्ययनयज्ञेषु ब्राह्मणा निरताः सदा ।
 विद्क्षत्रियाः स्वकर्माणः शूद्राः शुश्रूषवस्तथा ॥

काश्यापाथर्वमुनिमयूरचित्रमत्स्यपुराणविष्णुधर्मोत्तरवराहसंहिताद्वयवचनेषु मृगशिरोनक्षत्रस्थाने धनिष्ठानक्षत्रं पुनर्वसुनक्षत्रस्थानेऽभिजिन्नक्षत्रं चोक्तम् ।
तथा च काश्यपः ।

 धनिष्ठा श्रवणं ज्येष्ठा तथाऽऽषाढोत्तराऽभिजित् ।