पृष्ठम्:अद्भुतसागरः.djvu/३९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८४
अद्भुतसागरे

वशिष्ठस्तु ।

 यदाऽतिबलवान् वायुरन्तरीक्षानिलाहतः ।
 पतत्याशु स निर्घातो भवते वायुसम्भवः ॥
 तस्य योगान्निपततश्चलत्यद्भयो हता क्षितिः ।
 सोऽभिघातसमुत्थः स्यात् सनिर्घातमहीचलः ॥

वृद्धगर्गस्तु ।

 प्रजा धर्मरता यत्र तत्र कम्पः शुभो भवेत् ।
 जनानां श्रेयसे नित्यं विसृजन्ति सुरोत्तमाः ॥
 विपरीतस्थिता यत्र जनास्तत्राशुभं वदेत् ।
 विसृजन्ति प्रजानां तु दुःखशोक विवृद्धये ॥

पराशरस्तु ।
 प्राक् खलु भगवन्तममरवरगुरुं गुरुं समुपसृत्य गौरवावनत- शिरसः पराशरमुत्तरे हिमवतः पार्श्वेऽभितप्यमानत पसं प्रतपन्तमित्रो दयगिरिशिखराधिरूढमर्कमृषिगणमध्यस्थं जगन्मध्यस्थमन्तेवा- सिन ऊचुः । नावनिचलनमल्पकारणं नः प्रतिभाति । तत् किं नु खलु भगवन्नकस्मात् किमधर्मगौरवादवनिधरस्कन्धप्रचलनप्रतिच- लनमिति तद्दाञ्छन्ति तत् किमदृष्टकारितमुतार्णशयविचेष्टितमिति शिष्यवचनमथ निशम्य नेत्युवाच भगवान् । पुराऽतिवीर्यप्रवृद्धप्र भवाः पक्षिणः पवनपथचारिणोऽचलाः पतन्तः शतशोऽवनिमसकृ- दतिकम्पयाम्बभूवुः । तदाऽखिलजगदहितमव निचलनमभिसमीक्ष्य सुरपतिरविहतगतिमुपरि कुलिशमुत्क्षिप्य क्षितिधरपक्षान् क्षणान्निपात्यावनिमुवाचाद्विजमतः परं भयमपनयाम्यनिलानलबलभिदम्बुपत्यभिविसृष्टाः । कम्पाः कदा चिज्जगतो हिताहितवादिनो भविष्यन्ति- इति ।