पृष्ठम्:अद्भुतसागरः.djvu/३९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८५
भूमिकम्पाद्भुतावर्त्तः ।

तथा चौशनसे ।

 चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् ।
 आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥
 पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः ।
 आपः पश्चादुदीचीं च स चचाल प्रभञ्जनः ॥

वराहसंहितायां च ।

 गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च ।
 आकम्पिता पितामहमाहामरसदसि सव्रीडम् ॥
 भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन्न तथा ।
 क्रियतेऽचलैश्वलद्भिः शक्ताऽहं नास्य खेदस्य ॥
 तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् ।
 साश्रुविलोचनमाननमवलोक्य पितामहः प्राह ॥
 मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय ।
 शक्रः कृतमित्युक्त्वा माभैषीर्वसुमतीमाह ॥
 किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् ।
 प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥

आथर्वणाद्भुतमयूरचित्रयोः ।

 प्राग्द्वित्रिचतुर्भागेषु दिनरात्र्योर्यथाक्रमम् ।
 अनिलाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ॥

पराशरः ।
 तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनिलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्- इति ।
 अहोरात्रस्य चतुर्षु प्रहरयुगलेषु क्रमेण वायव्यादयश्चत्वारो मण्डला भवन्तीति गार्ग्यादिवचनदर्शनादेकं व्याख्यानम् ।