पृष्ठम्:अद्भुतसागरः.djvu/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अथ
भूम्याश्रये भूमिकम्पाद्भुतावर्त्तः ।

तत्रादावेव भूकम्पोत्पत्तिकारणमुच्यते विष्णुपुराणे ।

 यदा विजृम्भतेऽनन्तो मुदा घूर्णितलोचनः ।
 तदा चलति भूरेखा साद्रिद्वीपाब्धिकानना ॥

तत्र यथाक्रमं काश्यपगर्गवशिष्ठवृद्धगर्गाणां मतं वराहसंहितायाम् ।

 क्षितिकम्पमाहुरेके मह्य[१]न्तर्जलनिवासिसत्त्वकृतम् ।
 भूभारखिन्नदिग्गजनिःश्वाससमुद्भवं चान्ये ॥
 अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वनं करोत्यन्ये ।
 के चित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः ॥

इदमन्ये प्राहुराचार्या इत्यस्य 'गिरिभिः पुरा सपक्षैः-' इत्यादिना वक्ष्यमाणेन सम्बन्धः । तत्र चानिलादिकृतो भूकम्प इति वक्तव्यम् ।
तथा च काश्यपः ।

 अर्णवस्योपरि पृथ्वी सशैलवनकानना ।
 स्थिता तन्मध्यगाः सत्त्वाः[२]संक्षोभाच्चालयन्ति ताम् ॥

गर्गस्तु ।

 चत्वारः पृथिवीं नागा धारयन्ति चतुर्दिशम् ।
 वर्धमानः सुवृद्धश्च अतिवृद्धः पृथुश्रवाः ॥
 वर्धमानो दिशं पूर्वी सुवृद्धो दक्षिणां दिशम् ।
 पश्चिमामतिवृद्धश्च सौम्याशां तु पृथुश्रवाः ॥
 नियोगाद्ब्रह्मणो ह्येते धारयन्त्यम्बुसंस्थिताः ।
 ते वसन्ति सदा श्रान्ताः स वायुं श्वसते महान् ॥
 वेगान्महीं चालयते भावाभावनिदर्शकः ।


  1. बृहदन्ता-इति अ ।
  2. जलजसष्टबाश्च इति अ.।