पृष्ठम्:अद्भुतसागरः.djvu/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८२
अद्भुतसागरे ।

 द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।

फलपाकसमयो गार्गीये ।

 घृततैलवसावर्षे सद्यः फलमुदाहृतम् ।
 व्यभ्रवृष्टिर्भवेन्मासात्.........इति ॥

अन्यासां त्वान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽतिवृष्ट्याद्यद्भुतावर्त्तः ।




अथ कबन्धाद्भुतावर्त्तः ।

लङ्काकाण्डे धूम्राक्षनिर्याणे धूम्राक्षवधनिमित्तम् ।

 “रुधिरार्द्रौ महाश्वेतः कबन्धो निपपात ह”[१]

गदापर्वणि पाण्डवशिविरवधनिमित्तम् ।

 "बहु पादैर्बहुभुजैः कबन्धैर्धोरदर्शनैः ।
 नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप"[२]

अत्रापि सावित्रीमव्रदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽअद्भुतसागरे कबन्धाद्भुतावर्त्तः ।

xxxxxक्षाश्रयः पूर्णः ।



  1. वाल्मीकीये ५१ सर्गे ३२ श्लो.।
  2. ५८ अ ५६-५७ श्लो. ।