पृष्ठम्:अद्भुतसागरः.djvu/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०५
अतिवृष्ट्याद्यद्भुतावर्त्तः ।

सौम्ये विप्रशस्यव्याधिवृद्धये षोडशद्रोणवर्षाय । आर्द्रायामष्टादशाढ। कवर्षा बीजशस्यभयाय ।
अपि च ।

 आटकोँश्चतुरोद्राणानपां विन्द्यात् प्रमाणतः ।
 धनुः प्रमाणं मेदिन्यां विन्द्याद्रोणाभिवर्षणम् ॥
 चतुर्विंशाङ्गुलानाहे द्विचतुष्काङ्गुलोच्छ्रिते ।
 भाण्डे वर्षाम्बुसंपूर्णे ज्ञेयमाढकवर्षणम् ॥

वराहसंहितायां तु ।

 हस्तविशालं कुण्डकमधिकृत्वाऽम्बुप्रमाणनिर्देशः ।
 पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् ॥

तत्र कुण्डे पञ्चाशत् पलानि पतितानि तदा जलाढकवृष्टिर्भूतेति जानीयादित्यर्थः

अत्र प्रवर्षणोत्पातेषु वृष्टिविकारविहिता शान्तिः कर्त्तव्या।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रवर्षणाद्भुतावर्त्तः ।

अथातिवृष्ट्याद्यद्भुतावर्त्तः ।

तत्र पराशरः ।

 अतिवर्षमवर्षणं दर्भिक्षाय ।

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 अतिवृष्टिरनावृष्टिदुर्भिक्षादिभयं महत् ।

आदिशब्देन शत्रुभयस्य ग्रहणम् ।
तथा च वराहसंहितायाम् ।

 दुर्भिक्षमनावृष्ट्यामतिवृष्टौ क्षुद्भयं परभयं च ।

बार्हस्पत्ये च ।

 अतिवृष्टिरनावृष्टिदुर्भिक्षाच्च भयं भवेत् ।