पृष्ठम्:अद्भुतसागरः.djvu/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७४
अद्भुतसागरे ।

 इह खलु शुक्लप्रतिपत्प्रभृतिवर्षं दशाकुलमाचक्षते । तस्यां या वदभिवृष्टे देशे वर्षतोऽपां प्रमाणमन्नशस्यप्रजाक्षेमाक्षेमलक्षणं वार्षिकमुपदेश्यामः । तत्रादित्ये विंशतिद्रोणाभिवर्षा सर्वशस्यक्षेमारोग्याय। पुष्येऽष्टादश द्रोणान् पश्चादभिवृद्धवर्षाय जघन्यशस्यसम्पदे । आश्लेषायां वर्षबीजक्षेमसाधुजनविघाताय त्रयोदशवृष्टये । पित्र्ये शस्योदकविघातकरपर्वतीयनृपतिवृद्धिं चतुर्दशद्रोणाभिवर्षणं च विन्द्यात् । भाग्ये चतुःषष्टिमाढकाणां वर्षात्यपि च शस्यरोगवृद्धये । शतमाढकानामार्यम्णेऽभिवृष्टो जनानभिनन्दयति । हस्ते पञ्चदशद्रोणान् क्षेमशस्यसम्पदं विन्द्यात् । पञ्चषष्टिद्रोणाभिवर्षी त्वाष्ट्रे सर्वजनवृद्धये । चतुरः स्वातौ शस्यविघातमक्षेमं चादिशेत् । ऐन्द्राग्ने विंशतिद्रोणाभिवर्षी राज्ञां विरोधकृद्भवति । मैत्रे द्विसप्तकद्रोणाभिवृष्टे नरेन्द्रोद्योगवणिग्बीजक्षीररोगवृष्टिं विन्द्यात् । ऐन्द्रे चतुर्द्रोणाभिवर्षी बीजान्युच्छेदयति । तच्चतुर्गुणो मूले सर्वशस्याभावो न क्षेमाय । आप्ये म्लेच्छसर्वशस्यव्याधिप्राबल्यम्। अष्टादशग्रहावसाने द्रोणान् षोडश वर्षति । हेमन्ते वा वैश्वदेवे शस्यवृद्धिः क्षेमायाभीक्षविंशतिपर्यन्तं द्रोणवर्षाय । श्रवणे मुखरोगातीसारज्वरशस्यप्राबल्यं वृष्टिद्रोणाश्चात्र षोडशैव । वासवे शीर्षरोगप्राबल्यं च । वारुणे तच्चतुर्भागमपि च शस्त्रं दुर्भिक्षजननं च विन्द्यात् । आजेऽष्टादशद्रोणप्रततवर्षाप्रधानभूपतिविरोधाय। आहिर्बुध्ये चतुर्दशाहकवर्षा कक्षिरोगशस्यदम्। अश्विन्यां द्वादशद्रोणान् पश्चादभिवृष्ट एकदेशे निम्नेषु शस्यं निष्पादयति । भरण्यां पञ्चदशद्रोणाभिवर्षा भवत्यग्निचौरक्षुद्व्याधिकरः । आग्नेये अग्निदंष्ट्रिशस्त्रभयाय षोडशद्रोणवर्षाय च । रोहिण्यामाढकशतवर्षा सर्वजगदामोदाय ।