पृष्ठम्:अद्भुतसागरः.djvu/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७३
प्रवर्षणाद्भुतावर्त्तः ।

 भवति न हि शुभं न चापि वृष्टिः
 शुभसहिते निरुपद्रवं शिवं च ॥

प्रसवकाले यत्र नक्षत्रे यावन्मात्रे वा देशे वृष्टिर्भवति तदुक्तं वराहसंहितायाम् ।

 के चिद्यथाऽभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये ।
 गर्गवशिष्ठपराशरमतमेतद्वादशान्न परम् ॥

के चिद्यथाऽभिवृष्टमिति । प्रवर्षणकाले यत्र देशे वृष्टिः प्रसवकालेऽपि तत्रैव वर्षतीत्याहुः ।
तथा च काश्यपः ।

 यत्र प्रवर्षणे वृष्टौ वासवस्तत्र वर्षति ।
 वर्षाकालं समासाद्य ययुत्पातो न दृश्यते ॥

दशयोजनमण्डलं वदन्त्यन्ये इति । प्रवर्षणकाले यत्र देशे वृष्टिस्ततो दशयोजनान्तराले वर्षतीत्यन्ये वदन्ति ।
तथा च देवलः ।

 प्रवर्षणे यदा वृष्टो वर्षमाणः शतक्रतुः ।
 वर्षाकालं समासाद्य वर्षते दशयोजनम् ॥

गर्गस्तु ।

 आषाढादिषु वृष्टेषु वर्षाकाले विनिर्दिशेत् ।
 योजनानि दश द्वे च वर्षते पाकशासनः ॥

वराहसंहितायाम् ।

 येषु च भेष्वतिवृष्टिर्भूयस्तेष्वेव वर्षति प्रायः ।
 यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥

वटकणिकायाम् ।

युग्माजगोमत्स्यगते शशाङ्के रविर्यदा कर्कटकं प्रयाति ।
जलं शताढे हरिकार्मुकेऽर्धमुक्तं च कन्यामृगयोरशीतिः ॥
कुलीरकुम्भालितुलाभिधाने संवृद्धियुक्ता नवतिः समन्तात् ।

पुनर्वसुप्रभृतिनक्षत्रयुक्तशुक्लप्रतिपत्सु प्रवर्षणजलपरिमाणमाह पराशरः ।