पृष्ठम्:अद्भुतसागरः.djvu/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६६
अद्भुतसागरे ।

 नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
 पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
 शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ।

वटकणिकायाम् ।

 सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे [१] |

बृहत्संहितायां च ।

 यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
 पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥

पराशरः ।
 वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः । विपर्यये त्वशस्तता ।
वटकणिकायाम् ।

 पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
 वर्षति पञ्चनिमत्ताद्रूपेणैकेन यो गर्भः ॥
 वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
 षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे [२]
 शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
 स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
 पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
 स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥


  1. गर्भविपाकः स नक्षत्रे इति अ. ।
  2. इदं श्लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।