पृष्ठम्:अद्भुतसागरः.djvu/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६५
मेघानां गर्भाद्भुतावर्त्तः ।

 यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥
 के चिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः ।
 न तु तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥
 मार्गशिरःसितपक्षप्रतिपत्प्रभृतिक्षपाकरेऽषाढाम् ।
 पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥
 मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।

पराशरः ।

 माघेन श्रावणं विन्द्यान्नभस्यं फाल्गुनेन तु ।
 चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्त्तिकम् ॥
 शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् ।
 रात्र्यह्नोश्च विपर्यासं गर्भकालविनिश्चयम् ॥

वटकणिकायाम् ।

 पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः ।
 कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन ॥
 रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ।

बृहत्संहितायां तु ।

 पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् ।
 माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ॥
 माघस्य कृष्णपक्षेण विनिर्दिशेद्भाद्रपदशुक्लम् ।
 फाल्गुनशुक्लसंमुत्था भाद्रपदस्यासिते विनिर्देश्याः ॥
 तस्यैव शुक्लपक्षोद्भवाश्च ये तेऽश्वयुक्शुक्ले ।
 चैत्रसितपक्षजाताः कृष्णेऽश्वयुजश्च वारिदा गर्भाः ॥
 चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।
 सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ॥