पृष्ठम्:अद्भुतसागरः.djvu/३७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६२
अद्भुतसागरे ।

अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः सद्यो वर्षाय । ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सुभिक्षाय ।
बृहद्यात्रायां वराहः ।

 नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
 कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः[१]

स्कन्दपुराणे तारकवधनिमित्तम् ।

 रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।

हरिवंशे तु बाणपराजयनिमित्तम् ।

 "त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्"[२]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "श्वेतलोहितपर्यन्ता कृष्णग्रीवाः सविद्युतः ।
 त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" [३]

भार्गवः ।

 नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् ।
 त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ॥

 “सकबन्धश्च परिघो भानुमावृत्य तिष्ठति” [४]

द्रोणपर्वणि द्रोणवधनिमित्तम् ।

 “सकबन्धस्तथाऽदित्ये परिघः समदृश्यत” [५]

पराशरः ।

अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राजवधाय स्युः । शेषा रश्मिभिः समानफलाः । अथाभ्राणि सञ्चितानि


  1. बृहत्संहितायामपीदमुपलभ्यते । तदर्थं द्रष्टव्यम् अ.पु.४३४ पृ.।
  2. ११६ अ. ६५ श्लो. ।
  3. २ अ, २१ श्लो. । तत्र भानुमन्तमवारयन् इति पाठः।
  4. ११२ अ. ९ श्लो ।
  5. ७७ अ, ३ श्लो. ।