अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः सद्यो वर्षाय । ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सुभिक्षाय ।
बृहद्यात्रायां वराहः ।
नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः[१] ॥
स्कन्दपुराणे तारकवधनिमित्तम् ।
रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।
हरिवंशे तु बाणपराजयनिमित्तम् ।
"त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्"[२] ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"श्वेतलोहितपर्यन्ता कृष्णग्रीवाः सविद्युतः ।
त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" [३]॥
भार्गवः ।
नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् ।
त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ॥
“सकबन्धश्च परिघो भानुमावृत्य तिष्ठति” [४]।
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“सकबन्धस्तथाऽदित्ये परिघः समदृश्यत” [५]।
पराशरः ।
अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राजवधाय स्युः । शेषा रश्मिभिः समानफलाः । अथाभ्राणि सञ्चितानि