पृष्ठम्:अद्भुतसागरः.djvu/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५३
वाताद्भुतावर्त्तः ।

 अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बाल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।
अथ वाताद्भुतावर्त्तः ।

तत्र शुभसूचकवातलक्षणमाह पराशरः ।
 इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः सम इति सर्वदा शस्यते ।
मत्स्यपुराणे ।

 अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।

अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।

 वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
 प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्विज ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"[१]

तथा ।

 “वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”[२]

मौशले वृष्णिक्षयनिमित्तम् ।


  1. ३ अ. ११ श्लो. ।
  2. भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।