पृष्ठम्:अद्भुतसागरः.djvu/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५४
अद्भुतसागरे ।

 "ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः” [१]

भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।

 “वायुर्वाति खरस्पर्शो रजसा विसृजन् नभः"[२]

बहुदिनानुबन्धिवात परमेतत् फलगौरवात् । तथा च मौशले वृष्णिक्षयनिमित्तम् ।

 "उत्पेदिरे महावाता दारुणाश्च दिने दिने” [३]

बार्हस्पत्ये तु ।

 वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
 पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
 सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
 ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥

आदिकाण्डे परशुरामपराजयनिमित्तम् ।

 “तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
 प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥

उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।

 चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
 सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” [४]

घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।

 “ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
 प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” [५]

उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।

 “....... ववुर्वाताः सुदारुणाः”। [६]


  1. १ अ. २ श्लो. ।
  2. नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते ।
  3. २ अ. ४ श्लो. ।
  4. नेदं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।
  5. १५५ अ. २ श्लो. ।
  6. ९ सर्गे ३२ श्लो.।