पृष्ठम्:अद्भुतसागरः.djvu/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३८
अद्भुतसागरे

 तदा कुमारमरणं ज्ञेयं देशस्य पीडनम् ॥

मयूरचित्रे ।

 बुधं सन्तापयत्युल्का ज्वालामालासमाकुला ।
 कुमारमरणं ब्रूयाद्भृपपीडा च सम्भवेत् ॥

बृहस्प्रतिघातफलं गार्गीयमयूरचित्रयोः ।

 बृहस्पतिं देवगुरुं यद्युल्का परितापयेत् ।
 पुरोहितवधं ब्रूयात् पीड्यन्ते च द्विजातयः ॥

भार्गवघातफलं गार्गीये ।

 भार्गवं तापयन्ती सा तत्र राजवधं वदेत् ।

मयूरचित्रे ।

 भार्गवं तापयन्ती सा महाराजभयावहा ।

शनैश्चरघातफलं मयूरचित्रे ।

 निपतन्ती यदा चोल्का दीप्ता हन्ति शनैश्वरम् ।
 तदा नायकमुख्यानां गार्गीया ब्रुवते फलम् ॥

गार्गीये ।

 यदा रविसुतं दीप्ता उल्का हन्ति शनैश्चरम् ।
 तदा नायकमुख्याँश्च बलाध्यक्षाँश्च पातयेत् ॥

अथ नक्षत्रघातफलं वराहसंहितायाम् ।

 भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम् ।
 उग्रक्षत्रिय[१] पीडा पुष्यानिलविश्वदेवेषु ॥
 ध्रुवसौम्येषु नृपाणामुग्रेषु सवारुणेषु चौराणाम् ।
 क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥

जन्मनक्षत्रघातफलं गार्गीये ।

 यस्य राज्ञस्तु नक्षत्रमुल्कया प्रतिहन्यते ।
 स राजा नश्यति क्षिप्रं यदि शान्तिं न कारयेत् ॥


  1. विप्रक्षत्रिय-इति अ. ।