पृष्ठम्:अद्भुतसागरः.djvu/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अद्भुतसागरे

 परचक्रागमनृपभयदुर्भिक्षावृष्टिभयजननी ।

हरिवंशे बाणपराजयनिमित्तम् ।

 "सूर्यं भित्वा महोल्का च पपात धरणीतले"[१]

आश्वमेधिके सैन्धवपराजयनिमित्तम् ।

 "उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः"[२]

शल्यपर्वणि कौरवक्षयनिमित्तम् ।

 "सदण्डा: सोल्मुका राजन् कीर्यमाणाः समन्ततः ।
 उल्का: पेतुर्दिवो भूमावाहत्य रविमण्डलम्"[३]

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 “पपात महती चोल्का प्राङ्मुखी भरतर्षभ ।
 उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना”[४]

पराशरः ।

 उदयेऽस्तमये भानुमुल्काऽऽहत्य समुच्छ्रिता ।
 प्रज्वलन्ती तदा राजा क्षिप्रं शस्त्रेण हन्यते ॥

वराहसंहितायाम् ।

 दिवसकरमुदयसंस्थितमुल्काशनिविद्युतो यदा हन्युः ।
 नरपतिमरणं विद्यात् तदाऽन्यराष्ट्रप्रतिष्ठां च ॥

अथ चन्द्र पीडाकृदुल्काफलम् । पद्मपुराणमत्स्यपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।

 उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ।

गार्गीये ।

 चन्द्रमण्डलगा या च पावकार्चिः प्रभाऽथ वा ।
 उल्का विनिपतेत् तत्र युवराजवधं वदेत् ॥


  1. ११६ अ. २१ श्लो. ।
  2. ७७ अ. १६ श्लो. ।
  3. ११ अ. १५ श्लो. । तत्र
    'सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।
    उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्' एवमुपलभ्यते ।
  4. १० अ. ३८ श्लो. ।