पृष्ठम्:अद्भुतसागरः.djvu/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३५
उल्काद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।
 दिवोल्का चन्द्रार्कविनिर्गता उद्योतिनी अतिस्थूला सस्फुलिङ्गा तथोर्ध्वगा राजमृत्यवे स्यात् ।
अथ ग्रहनक्षत्रपीडाकृदुल्काफलं मयूरचित्रे ।

 ग्रहर्क्षसोमसूर्येषु पतन्त्युल्का भयावहाः ।

कास्यपः ।

 नक्षत्राणि ग्रहाश्चैव उल्कया ध्वस्तधूपिताः ।
 तद्देशनाथनाशाय लोकानां संक्षयाय च ॥

पराशरस्तु ।

 सूर्यमेव चेदभिहत्योल्का याम्यां दिशमभिपतेद्राज्ञो वधाय ।

पराशरः ।

 या चार्कचन्द्रयोरग्रतो निपतेन्नृपतिजयमविजयं च पृष्ठतः।

वराहसंहितायाम् ।

 पौरेतरघ्नमुल्काऽपसव्यकरणं दिवाकरहिमांश्वोः ।
 उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥

आदित्यमण्डलादुल्कपातोऽतीव भयावहः । तथा च भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "पपात महती, चोल्का मध्येनादित्यमण्डलात्"[१]

द्रोणपर्वणि द्रोणवधनिमित्तम् ।

 “पपात महती चोल्का आदित्यान्निःस्वनत्युत”[२]

स्कन्दपुराणे लोकोद्वेगनिमित्तम् ।

 दिवाकरात् कबन्धाङ्गात् पेतुरुल्काः समन्ततः ।

चन्द्रविम्बविनिःसृताऽपि दोषावहा भवति । वराहसंहितायाम् ।

 संस्पृशती चन्द्रार्कौ तद्विम्बविनिःसृता सभूकम्पा ।


  1. ११२ अ. ९१ श्लो. ।
  2. १९२ अ. १८ श्लो. तत्र 'निश्चरन्त्युत' इति पाठः ।