पृष्ठम्:अद्भुतसागरः.djvu/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३०
अद्भुतसागरे ।

वटकणिकायाम् ।

 क्रूरग्रहर्क्षलग्नक्षणतिथिकरणप्रभञ्जनैर्दीप्ता ।
 दीप्ताण्डजमृगविरुतैर्निर्घातैः क्षितिविकम्पैश्च ॥

क्रूरग्रहर्क्षलग्नादिभिर्दीप्ता भवति अनिष्टफलदा भवतीत्यर्थः ।
अयोध्याकाण्डे ।

 "सनिर्घाता महोल्काश्च पतन्ति हि महास्वनाः ।
 प्रायेण हि निमित्तानामीदृशानां समुद्भवे ॥
 राजा वा नाशमाप्तोति राष्ट्रं वा नाशमृच्छति”[१]

द्रोणपर्वणि द्रोणवधनिमित्तम् ।

 “अपतद्दीप्यमाना च सनिर्घाता सकम्पना ।
 उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः"[२]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “पतन्त्युल्काः सनिर्घाताः शाक्राशनिसमप्रभाः ।
 अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥
 विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् ।
 अन्योन्यमुपतिष्ठन्द्भिस्तत्र चोक्तं महर्षिभिः ।
 भूमिपालसहस्राणां भूमिं पास्यति शोणितम्[३]

सनिर्घाता विद्युतोऽशनयश्च दोषाहा भवन्ति ।
तथा च द्रणपर्वणि द्रोणवधनिमित्तम् ।

 “शक्राशन्यश्च निष्पेतुः संनिर्घाताश्च विद्युतः[४]

सभापर्वणि कुरुपुरविनाशनिमित्तम् ।

 "उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत"[५]

गार्गीये ।

 उल्का ज्वलन्ती निपतेद्यदा वै धूमान्विता तालसमानमात्रा ।


  1. वाल्मीकीये ८१ सगै १७-१९ तत्रान्यथा क्वचित् पाठः ।
  2. ७ अ, ३८-३९ श्लो. ।
  3. अ. ३५-३७ श्लो ।
  4. उक्तस्थले नोपलभ्यते ।
  5. ८० अ. २९ श्लो. ।