गदापर्वणि दुर्योधनवधनिमित्तम् ।
"बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः"[१] ।
अथ वर्णफलं पराशरः ।
पांशुरजोऽरुणप्रभेषु वृष्टिं श्वेते ब्राह्मणपीडामितरवर्णवृद्धिं लोहिते शस्त्रकोपं नीले शस्त्रक्षयं वर्षणं च प्रदोषे महाभयम् ।
मत्स्यपुराणे ।
रजसा वाऽपि धूमैर्वा दिशो यत्र समाकुलाः ।
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ॥
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
“ततस्तुमुलमाकाशमावृणोत् सदिवाकरम् ।
वातोद्धतं रजस्तीव्रं कौशेयनिकरोपमम्”[२] ॥
मध्यपुराणपुरणयों हिरण्यकशिपुवधनिमित्तम् ।
“न प्रकाशन्ति दिशो रक्तरेणुसमाकुलाः"[३] ।
आग्नेयपुराणेऽप्येवम् । हरिवंशे कंसवधनिमित्तम् ।
“अपराह्नगते सूर्ये लोकानां क्षयकारिणि ।
न प्रकाशन्ते च दिशो रक्तरेणुसमाकुलाः” [४]॥
आदिकाण्डे परशुरामपराजयनिमित्तम् ।
"रजसा च जगत् कृष्णं भस्मनैवावकीर्यते”[५]।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति[६]" - इति
अत्र तमोधूमायुत्पातेषु सावित्रीमत्रदशकलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमव-गम्य कर्त्तव्या ।