पृष्ठम्:अद्भुतसागरः.djvu/३३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१९
तमोधूमरजोनिहाराद्भुतावर्त्तः ।

अथ तमोधूमरजोनिहाराद्भुतावर्त्तः ।

तत्र पराशरः ।

 अथ तमांसि स्थानदिग्वर्णविशेषैः शुभाशुभं दर्शयति प्रजानाम् । स्थानफलमाह भूम्याश्रिते तमसि वर्षंं विन्द्यात् । नभसि महावर्षम् ।

मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।

 "विवेश रूपिणी काली कालमेवावगुण्ठिता।
 द्यौर्न भात्यभिभूतार्का घोरेण तमसाऽऽवृता" [१]

पराशरः ।

 शरदन्नप्राचुर्यमुदक्चराणां च प्राणिनामुपद्रवम् । पर्वतौषधीनामभावं ग्रामनगरजनपदपीडाम् । आरण्यककाण्डे जनस्थाननिवासिनां वधनिमित्तम् ।

 "तमसा चैव घीरेण समुद्भूतेन सर्वतः
 प्रच्छादितं जनस्थानं नीचाकाशे समन्ततः”[२]

मत्स्यपुराणे च ।

 अनैशानि तमांसि स्युर्यत्र तच्चाशु नश्यति ।

अथ दिक्फलं पराशरः ।

 दिक्षु जनपदपीडनम् ।

आदिकाण्डेषु परशुरामपराजयनिमित्तम् ।

 "दिशः सतिमिराश्चासन् न तताप दिवाकरः” [३]

मत्स्यपुराणपद्मपुराणहरिवंशेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।

 "तिमिरौघपरिक्षिप्ता न राजन्ते दिशो दश"[४]


  1. मत्स्यपुराणे १७२ अ. १९ श्लो.
  2. नेदं पद्यं वाल्मीकीये यथेाक्तस्थाने उपलभ्यते ।
  3. नेदं पद्यं वाल्मीकीये उने उपलभ्यते ।
  4. मत्स्यपुराणे १७२ म. १८ श्लो. ।