पृष्ठम्:अद्भुतसागरः.djvu/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१८
अद्भुतसागरे

अथ छायाद्भुतावर्त्तः ।

मत्स्यपुराणे ।

 विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ।
 दृश्यते तु प्रतीपा वा तदा देशभयं भवेत् ॥

अथर्वणाद्भुते च ।

 यदा वाऽनभ्रविमले सूर्ये छाया न दृश्यते ।
 दृश्यते सा प्रतीपा वा तदा देशभयं भवेत् ॥

वराहसंहितायां च ।

 यद्यमलेऽर्कच्छाया न दृश्यते वा प्रतीपा वा ।
 देशस्य तस्य सुमहद्भयमायातं विनिर्देश्यम् ॥

पराशरस्तु ।

दिवा व्यभ्रे विरजसि वा रवौ छायादर्शनं तत्प्रातिलोम्यदर्शनं वा जनमारभयम् ।

मत्स्यपुराणे हिरण्यकशिपुवर्धनिमित्तम् ।

 "यदा च सर्वभूतानां छाया न परिवर्त्तते ।
 अपराह्णगते सूर्ये लोकानां युगसंक्षये”[१]

 मत्स्यपुराणाद्युक्ता सूर्येन्दुपर्यन्यसमीरणयोगात्मिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिरत्र कर्त्तव्या ।

मयूरचित्रे तु ।

 छाया वै यत्र भूतानां परिवृत्तिं न गच्छति ।
 अपराह्णगते सूर्ये न च छायाऽवलम्बते ॥
 अमात्यसार्थवाहानां श्रेष्ठानां च वदेद्वधम् ।
 प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ॥

छायाद्भुतानामनुक्तफलपाकसमयविशेषत्वात् षाण्मासिकः फलपाको बोद्धव्यः ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेन देवविरचितेऽद्भुतसागरे छायाद्भुतावर्त्तः ।


  1. १६३ अ. ५० श्लो. ।