पृष्ठम्:अद्भुतसागरः.djvu/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१४
अद्भुतसागरे

वराहसंहितायां तु ।

 उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्त्ताः ।
 किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥
 शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः ।
 अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते त्वमोघाख्याः ॥

पराशरः ।

रूक्षा विच्छिन्नास्तनवो ह्रस्वा धूमाभा लोहिता विवर्णा गर्हिताः ।

वराहसंहितायाम् ।

 विच्छिन्नविषमविध्वस्तविकृतकटिलापसव्यपरिवृत्ताः ।
 तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदा किरणाः ॥
 कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशवलाभाः[१]
 त्रिदिनानुबन्धिनो वृष्टयेऽल्पभयदास्तु सप्ताहात् ॥
 ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च रुग्व्यसनम्[२]
 हरिताः पशुशस्यवधं धूमसवर्णा गवां नाशम् ॥
 मञ्जिष्ठाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् ।
 भस्मसदृशास्त्ववृष्टिं तनुभावं शवलकल्माषाः ॥

पराशरः ।

 बन्धुजीवनिकाशेन तपनीयनिभेन वा ।
 उदये रजसा सूर्यः संवृतः शस्त्रमावहेत् ॥

वराहसंहितायां तु ।

बन्धूकपुष्पाञ्जनवर्णसन्निभं सान्ध्यं रजोऽभ्येति यदा दिवाकरम् ।
लोकस्तदा रोगशतैर्निपीड्यते शुक्लं रजो लोकविवृद्धिशान्तये ॥

तथा च पराशरः ।

 शङ्कचूर्णनिकाशेन रजसा संवृतो रविः ।


  1. शवला बा इति वा पा ।
  2. तद्यसमम् इति भ. ।