पृष्ठम्:अद्भुतसागरः.djvu/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१५
दिग्दाहाद्भुतावर्त्तः ।

 राज्ञो विजयमाख्याति वृद्धिं जनपदस्य च ॥

 अत्रानुक्तविशेषशान्तिषु सन्ध्याकालिकर विकिरणाद्भुतेषु सावित्रीमश्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

सूर्यरस्मीनां त्रिरात्राभ्यन्तरे फलपाक इति रश्मिदण्डाद्भुतावर्त्ते[१]उक्तम् ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वलालसेनदेवविरचितेद्भुतसागरे सन्ध्याकालिकरविकिरणाद्भुतावर्त्तः ।


अथ दिग्दाहाद्भुतावर्त्तः ।

तत्र दिग्दाहस्वरूपं बार्हस्पत्ये ।

 सदाऽस्तमित आदित्ये वह्निज्वाला प्रदृश्यते ।
 दिशां दाहं तु तं विन्द्याद्भार्गवस्य वचो यथा ॥

शुभसूचकदिग्दाहलक्षणं वराहसंहितायाम् ।

नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च ।
दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥

अथ वर्णफलं वराहसंहितयोः ।

दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः ।
यश्चारुणः स्यादपसव्यवायुः स शस्यनाशं प्रकरोति दृष्टः ॥

बार्हस्पत्ये तु ।

 श्वेताः पीताश्च रक्ताश्च दाहाः कृष्णाश्च वर्णतः ।
 ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
 रक्ताः शस्त्रभयं कुर्युः पीता व्याधिप्रकोपनाः ।
 अग्निवर्णास्तथा कुर्युरग्निशस्त्रभयं महत् ॥


  1. एतेन ३०३ पृ. उक्तरक्ष्मिदण्डाजद्भुतावर्त्ते का चित् त्रुटिस्तदर्थमशुद्धिपत्रमयलोक्यम् ।