पृष्ठम्:अद्भुतसागरः.djvu/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१३
सन्ध्याकालिकरविकिरणाद्भुतावर्त्तः ।

तथा महावर्षं रूप्यवर्णायां नीलायां वा कृष्णायामनृतौ वर्षणमृताववग्रहाय । तथा च नीलमाञ्जिष्ठायामग्निजिविनां वधाय स्यात् । लोहितश्यामायां चौरवृद्धये । एवमेव चतूरागा पञ्चरागा वा ।
 अत्रानुक्तविशेषशान्तिषु सन्ध्योत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या महाशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या ।

अथ विहितविशेषशान्तयः सन्ध्योत्पाता मयूरचित्रे ।

 गोमूत्राभाऽऽज्यभाण्डाभा स्निग्धा हिङ्गुलसन्निभा ।
 लाक्षा विद्रुमकान्तिश्च सन्ध्या वृष्ट्यै रणाय च ।
 तमोयुक्ता रजोयुक्ता सन्ध्या राष्ट्रनृपान्तकृत् ।
 ऋतुस्वभावजा सा तु सुभिक्षक्षेमकारिणी ॥
 अत्र साधारणो शान्तिः कर्त्तव्या गर्गभाषिता ।

तत्रैव ।

 निष्प्रभा वा यदा सन्ध्या रूक्षा भस्मरजःसमा ।
 तदा पित्तज्वरोद्भूतैः पीड्यन्ते व्याधिभिर्जनाः ॥
 शान्तिश्चतुर्दशी कार्या सन्ध्योल्कापातचोदिता ।

 'सप्ताहात् सन्ध्ययोः फलपाकःइति पाकावर्त्ते वक्ष्यामः ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सन्ध्याद्भुतावर्त्तः ।


अथ सन्ध्याकालिकरविकिरणाद्भुतावर्त्तः ।

पराशरः ।

 स्निग्धाः परिपूर्णाः शुक्ला माञ्जिष्ठवर्णाः पीता अभ्यन्तरगामिनो रश्मयः शस्यन्ते ।