पृष्ठम्:अद्भुतसागरः.djvu/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१२
अद्भुतसागरे

पराशरः ।

 स्निग्धा गौरी योगक्षेमाय भवति श्वेतायां वस्त्रवृद्धिः ।

बार्हस्पत्ये तु ।

 सन्ध्याः कमलकिञ्जल्कतडित्कल्पाः शुभावहाः ।

वराहसंहितायां तु ।

 कुवलयवैदूर्याम्बुजकिञ्जकाभा प्रभञ्जनोन्मुक्ताः ।
 सन्ध्या करोति वृष्टिं रविकिरणोद्भासिता सद्यः ॥

आषाढीयोगे पराशरः ।

 वेदूर्यरजतहेमप्रभा सन्ध्या प्रावृड्वृद्धये ।

मयूरचित्रे ।

 मनःशिला प्रियङ्गामा हरितालनिभा तथा ।
 सद्यो वर्षाय सन्ध्या या हरिद्वाभाऽरुणा मनाक् ॥

हरिवंशेऽर्जुनपराजयनिमित्तम् ।

 "सन्ध्यारागो जपावर्णः”[१]

लङ्काकाण्डे रावणवधनिमित्तम् ।

 सन्ध्यया चावृता लङ्गा जपापुष्पनिकाशया ।
 "दृश्यते संप्रदीप्तेव दिविसेऽपि प्रवृद्धया"[२]

पराशरस्तु ।

 परिमण्डलायां रक्तायां भयम् । हरितायां शस्त्रभयम् । माञ्जिष्ठामग्निम् । पीतायां चतुष्पद्रोगम् । श्यामायां चौरतो भयम् । नीलपीतायामीतिभयम् । हरितालवर्णायां प्रथमामात्यस्य शस्त्रेण वधम् । आम्रकोरकवर्णायां वर्षम् । नीलरक्तायामवग्रहम्। कृष्णायामवर्षम् । त्र्यहं चेत् श्यामा रक्ता गौरी वा स्यात् पशुघातं विन्द्यात् । वातकपिलामस्तमितमात्रे सूर्ये याऽतिमात्रप्रकाशा स्यात् प्रभा सा नामासौ तस्यां वर्षं विन्द्यात् । प्रत्यूषसि तद्रूपायामेव राज्ञः सेनापतेर्वा वधम् ।


  1. ११२-अ. ४ श्लो. ।
  2. १०६ अ २३ श्लो. तत्र प्रवृद्धयेत्यत्र वसुन्धरेति पाठः ।