पृष्ठम्:अद्भुतसागरः.djvu/३२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०६
अद्भुतसागरे

 व्यसनं मरणं चापि विज्ञेयमनुपूर्वशः ।

बृहद्यात्रायां वराहः ।

 गन्धर्वनगरं हन्ति प्राक्प्रभृत्यवनीश्वरम् ।
 बलेशं युवराजं च पुरोहितमिति क्रमात् ॥

वराहसंहितयोः ।

 उदगादितः पुरोहितनृपबलपतियुवराजदोषदं खपुरम् ।
 नागरनृपविजयावहमुदग्विदिक्स्थं विवर्णनाशाय ॥

पराशरस्तु ।
 अथ गन्धर्वनगराणि प्राच्याद्यष्टासु दिक्षु प्रादुर्भूतानि क्रमात् फलमावेदयन्ति । क्षुत्पीडामग्निप्रकोपं युवराजवधं तस्करोपद्रवंराजपीडां तपस्विनां भयं भूतागमनं वर्षम् इति ।

मयूरचित्रे तु ।

 पूर्वस्यां दिशि विस्पष्टगन्धर्व नगरोदये ।
 पश्चिमस्यां दिशि राज्ञो भयमापद्यते महत् ॥
 सर्वास्त्वन्यासु दिक्ष्येवं विपर्यासात् फलं विदुः ।

बार्हस्पत्ये ।

 सततं दृश्यमानं च राज्ञो राष्ट्रभयावहम् ।

वराहसंहितयोः ।

 सर्वदिगुत्थं सततोदितं च भयदं नरेन्द्राणाम् ।

 अत्रानुक्तविशेषशान्तिषु गन्धर्वनगरोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

गन्धर्वनगरफलपाको मासत्रयेणेति पराशरादिभिरुक्तम् ।
वराहसंहितायाम् ।

 गन्धर्वपुरं मासात्-इति ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गन्धर्वनगरातद्भावर्त्तः ।